वांछित मन्त्र चुनें

उ॒शिक्पा॑व॒को अ॑र॒तिः सु॑मे॒धा मर्ते॑ष्व॒ग्निर॒मृतो॒ नि धा॑यि । इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ॥

अंग्रेज़ी लिप्यंतरण

uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi | iyarti dhūmam aruṣam bharibhrad uc chukreṇa śociṣā dyām inakṣan ||

पद पाठ

उ॒शिक् । पा॒व॒कः । अ॒र॒तिः । सु॒ऽमे॒धाः । मर्ते॑षु । अ॒ग्निः । अ॒मृतः॑ । नि । धा॒यि॒ । इय॑र्ति । धू॒मम् । अ॒रु॒षम् । भरि॑भ्रत् । उत् । शु॒क्रेण॑ । शो॒चिषा॑ । द्याम् । इन॑क्षन् ॥ १०.४५.७

ऋग्वेद » मण्डल:10» सूक्त:45» मन्त्र:7 | अष्टक:7» अध्याय:8» वर्ग:29» मन्त्र:1 | मण्डल:10» अनुवाक:4» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उशिक्) जीवों के लिए कल्याण कामना करनेवाला (पावकः) तथा पवित्रकर्त्ता (अरतिः) सर्वत्र व्यापक या भोगरति से रहित (सुमेधाः) शोभनबुद्धिवाला सर्वज्ञ (मर्तेषु-अमृतः-अग्निः-निधायि) मरणधर्मी प्राणियों में अमृत-मरणधर्मरहित ज्ञानस्वरूप परमात्मा निहित है (अरुषं धूमम्-इयर्ति) अज्ञाननिवारक प्रकाश को प्रेरित करता है (शुक्रेण शोचिषा द्याम्-इनक्षन्-भरिभ्रत्) शुभ्र प्रकाश से मोक्षधाम को व्याप्त होता हुआ धारण करता है ॥७॥
भावार्थभाषाः - परमात्मा प्राणियों की कल्याण कामना करता हुआ सबके अन्दर व्यापक होकर जीवनप्रकाश प्रदान करता है और विशिष्ट मनुष्यों को मोक्ष की ओर भी प्रेरित करता है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उशिक्) जीवानां कल्याणं कामयमानः (पावकः) पवित्रीकर्त्ता (अरतिः) सर्वत्र व्याप्तो भोगरहितो वा (सुमेधाः) शोभनप्रज्ञः सर्वज्ञः (मर्तेषु-अमृतः-अग्निः निधायि) मरणधर्मकेषु प्राणिषु खल्वमृतो मरणधर्मरहितोऽग्निर्ज्ञानस्वरूपः परमात्मा निधीयते निहितो-ऽन्तर्हितोऽस्ति (अरुषं धूमम्-इयर्ति) आरोचमानं प्रकाशं धूनयितारमज्ञाननिवारकं प्रेरयति (शुक्रेण शोचिषा द्याम्-इनक्षन् भरिभ्रत्) शुभ्रेण प्रकाशेन मोक्षधाम “पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि” [ऋ १०।९०।३] “इनक्षन्-व्याप्नुवन्” [यजु० १२।२४ दयानन्दः] व्याप्नुवन्, बिभर्ति धारयति ॥७॥